|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.74. अध्यायः 074
Mahabharata - Virata Parva - Chapter Topics
कुरुविजयदिनात्परेद्युः प्रभाते युधिष्ठिरादिभी राजलक्षणधारणेन सिंहासनादिषूपवेशनम् ॥ 1 ॥ ततः सहोत्तरेण सभामागतवता विराटेन युधिष्ठिरंप्रति राजासनोपवेशनाक्षेपः ॥ 2 ॥ अर्जुनेन तंप्रति युधिष्ठिरस्य याथातथ्यकथनेन तदीयगुणानुवर्णनपूर्वकं तस्य राजासनारोहणार्हत्वप्रतिपादनम् ॥ 3 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच।
ततो द्वितीये दिवसे भ्रातरः पञ्च पाण्डवाः।
स्नाताः शुक्लाम्बरधराः सर्वे सुचरितव्रताः ॥ 4-74-1(31508)
युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः।
अभिपन्ना महाभागा भ्राजमाना महारथाः ॥ 4-74-2(31509)
विराटस्य सभां प्राप्य भूमिपालासनेषु ते ।
निषेदुः पावकप्रख्याः सत्रे धिष्ण्येष्विवाग्नयः ॥ 4-74-3(31510)
तेषु तत्रोपविष्टेषु विराटः पृथिवीपतिः।
तस्यां रात्र्यां व्यतीतायां प्रातःकृत्यं समाप्य च ॥ 4-74-4(31511)
गोसुवर्णादिकं दत्त्वा ब्राह्मणेभ्यो यथाविधि ।
आजगाम सभां राजा उत्तरेण सह प्रभो ॥ 4-74-5(31512)
स तान्दृष्ट्वा महासत्वाञ्ज्वलतः पावकानिव।
राजवेषानुपादाय पार्थिवो विस्मितोऽभवत्। 4-74-6(31513)
किमिदं को विधिस्त्वेष भयार्त इव पार्थिवः।
पुरुषप्रवरान्दृष्ट्वा विषादमगमन्नृपः ॥ 4-74-7(31514)
अथ मात्स्योऽब्रवीत्कङ्खं देवराजमिव स्थितम् ।
मरुद्गणैरुपासीनं त्रिदशानामिवेश्वरम् ॥ 4-74-8(31515)
स किलाक्षनिवापस्त्वं सभास्तारो मया कृतः।
अथ राजासने कस्मादुपविष्टोऽस्यलंकृतः ॥ 4-74-9(31516)
वैशम्पायन उवाच। 4-74-10x(3299)
परिहासेच्छया राज्ञो विराटस्य निशम्य तत्।
स्मयमानोऽब्रवीद्वाक्यमर्जुनः परवीरहा ॥ 4-74-10(31517)
इन्द्रस्यार्धासनं राजन्नयमारोढुमर्हति।
ब्रह्मण्यः श्रुतवांस्त्यागी सर्वलोकाभिपूजितः ॥ 4-74-11(31518)
एष विग्रहवान्धर्म एष वीर्यवतां वरः।
एष बुद्ध्याधिको लोके तपसां च परायणम् ॥ 4-74-12(31519)
एषोऽस्त्रं विविधं वेत्ति त्रैलोक्ये सचराचरे।
न चैवान्यः पुमान्वेत्ति न वेत्स्यति कदाचन ॥ 4-74-13(31520)
न देवा नासुराः केचिन्न मनुष्या न राक्षसाः।
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥ 4-74-14(31521)
दीर्घदर्शी महातेजाः पारैजानपदप्रियः।
पाण्डवानामतिरथो यज्ञधर्मपरो वशी ॥ 4-74-15(31522)
महर्षिकल्पो राजर्षिः सर्वलोकेषु विश्रुतः ।
बलवान्धृतिमान्दक्षः सत्यवादी जितेन्द्रियः ॥ 4-74-16(31523)
धनैश्च संचयैश्चैव शक्रवैश्रवणोपमः ।
यथा मनुर्महातेजा लोकानां परिरक्षिता ।
एवमेव महातेजाः प्रजानुग्रहकारकः ॥ 4-74-17(31524)
अयं कुरूणामृषभः कुन्तीपुत्रो युधिष्ठिरः ।
यस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा ॥ 4-74-18(31525)
संसरन्ति दिशः सर्वा यशसोस्य गभस्तयः ।
उदितस्येव सूर्यस्य तेजसोऽनुगभस्तयः ॥ 4-74-19(31526)
एनं त्रिंशत्सहस्राणि कुञ्जराणां तरस्विनाम् ।
अन्वयुः पृष्ठतो राजन्यावदध्यावसत्कुरून् ॥ 4-74-20(31527)
त्रिंशच्चैव सहस्राणि रथानां रथिनां वरम्।
सदश्वैरुपसंपन्नाः पृष्ठतोऽनुययुस्तदा ॥ 4-74-21(31528)
वाजिनां च शतं राजन्त्सहस्राण्ययुतानि च।
इममष्टशतं सूताः सुमृष्टमणिकुण्डलाः।
तुष्टुवुर्मागधैः सार्धं पुरा शक्रमिवर्षयः ॥ 4-74-22(31529)
इमं नित्यपुमातिष्ठन्कुरवः किंकरास्तदा।
सर्वे च नृप राजानं धनेश्वरमिवामराः ॥ 4-74-23(31530)
एष सर्वान्महीपालान्करमाहारयत्तदा।
वैश्यानिव महाराज विवशान्स्ववशानपि ॥ 4-74-24(31531)
अष्टाशीतिसहस्राणि स्नातकानां महात्मनाम्।
उपजीवन्ति राजानमेनं सुचरितव्रताः ॥ 4-74-25(31532)
एष वृद्धाननाथांश्च व्यङ्गान्पङ्गूश्चं वामनान् ।
पुत्रवत्पालयामास प्रजाधर्मेण चाभिभूः ॥ 4-74-26(31533)
एष धर्मे दमे चैव दाने सत्ये रतः सदा।
महाप्रसादो ब्रह्मण्यः सत्यवादी च पार्थिवः ॥ 4-74-27(31534)
श्रीमत्संपत्प्रभावेन तप्यते यस्य कौरवः ।
रगणः सह कर्णेन सौबलेन च वीर्यवान् ॥ 4-74-28(31535)
गुणा न शक्याः संख्यातुमेतस्यैव नरेश्वर।
एष धर्मपरो नित्यमनृशंसः सुशीलवान् ॥ 4-74-29(31536)
एवं युक्तो महाराजा पाण्डवः पुरुषर्षभः ।
कथं नार्हति राजार्हमासनं पृथिवीपतिः ॥ ॥ 4-74-30(31537)
इति श्रीमन्महाभारते विराटपर्वणि वैवाहिकपर्वणि चतुःसप्ततितमोऽध्यायः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|